Loading data... On slow networks this could take a few minutes.
100%

क्षितितटशयनान्तादुत्थितं दानपङ्ग-
प्लुतबहुलशरीरं शाययत्येष भूयः ।
मृदुचलदपरान्तोदीरितान्दूनिनादं
गजपतिमधिरोहः पक्षकव्यत्ययेन ॥

मल्लिनाथः क्षितीति ॥ क्षितितटं भूतलमेव शयनान्तः शयनस्थानं तस्मादुत्थितम् । सुप्तोत्थितमित्यर्थः । अत एव दानपङ्कप्लुतबहुलशरीरं मदकर्दमोक्षितमहाकायं गजपतिमेषोऽधिरोहतीत्यधिरोह आरोहणः । पचाद्यच् । मृदु मन्दं चलता अपरान्तेन पश्चिमपादेनोदीरित उत्पादितोऽन्दूनिनादः शृङ्खलारवो यस्मिन्कर्मणि तद्यथा तथा । पक्ष एव पक्षकः पार्श्वः । `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति वैजयन्ती । तस्य व्यत्ययेन । पार्श्वान्तरेणेत्यर्थः। भूयः शाययति शयनं कारयति । `गतिबुद्धि-` (अष्टाध्यायी १.४.५२ ) इत्यादिना अणि कर्तुः कर्मत्वम् । स्वभावोक्तिरलंकारः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
क्षि ति ना न्ता दु त्थि तं दा ङ्ग
प्लु हु री रं शा त्ये भू यः
मृ दु रा न्तो दी रि ता न्दू नि ना दं
ति धि रो हः क्ष व्य त्य ये
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.