Loading data... On slow networks this could take a few minutes.
100%

क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगा-
नुदधिमहति राज्ये काव्यवद्दुर्विगाहे ।
गहनमपररात्रप्राप्तबुद्धिप्रसादाः
कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥

मल्लिनाथः क्षणेति ॥ क्षणं शयिताः सुरतश्रमापनोदाय विसुप्ता विबुद्धाः तदैव प्रबुद्धाः । यथाकालं प्रबुद्धत्वादिति भावः । क्षणशयितविबुद्धाः । स्नातानुलिप्तवत् `पूर्वकाल -` (अष्टाध्यायी २.१.४९ ) इति समासः । महीपाः कवय इव अपररात्रे । रात्रेः पश्चिमयाम इत्यर्थः । `पूर्वापर-` (अष्टाध्यायी २.२.१ ) इत्यादिना एकदेशिसमासे समासान्तोऽच् । `रात्राह्नाहाः पुंसि` (अष्टाध्यायी २.४.२९ ) इति पुंस्त्वम् । तत्र प्राप्तबुद्धिप्रसादा लब्धबुद्धिप्रकाशाः सन्तः उदधिमहति समुद्रगम्भीरे । एकत्र तुरगादिभिरपरत्र रसभावादिभिश्चेति भावः । अत एव दुर्विगाहे दुष्प्रवेशे राज्ये काव्ये इव काव्यवत् । `तत्र तस्येव` (अष्टाध्यायी ५.१.११६ ) इति वतिप्रत्ययः । प्रयोगान् सामाद्युपायानुष्ठानानि, अन्यत्रार्थगुणसाधुशब्दगुम्फान् कल्पयन्तस्तर्कयन्तः `ब्राह्मे मुहूर्त उत्थाय चिन्तयेदात्मनो हितम्` (याज्ञ० आचा०-अ० ११५) इति स्मरणादिति भावः । गहनं दुष्प्रापमन्यत्र दुर्दर्शमर्थजातं पुरुषार्थजातम् । त्रिवर्गमित्यर्थः । अन्यत्र&#३२; वाच्यलक्ष्यव्यङ्ग्यरूपमभिधेयजातं चिन्तयन्ति विचारयन्ति । इवशब्दस्योपलक्षणत्वात् काव्यवदिति वतिप्रत्ययेऽप्यनेकशब्दार्थगता श्रौती पूर्णा वाक्यार्थोपमा काव्यवदिति तद्धितगता, कवय इति समासगता चेति संकीर्णा
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
क्ष यि वि बु द्धाः ल्प न्तः प्र यो गा
नु धि ति रा ज्ये का व्य द्दु र्वि गा हे
रा त्र प्रा प्त बु द्धि प्र सा दाः
ही पा श्चि न्त न्त्य र्थ जा तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.