Loading data... On slow networks this could take a few minutes.
100%

प्रविकसति चिराय द्योतिताशेषलोके
दशशतकरमूर्तावक्षिणीव द्वितीये ।
सितकरवपुषासौ लक्ष्यते संप्रति द्यौ-
र्विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥

मल्लिनाथः प्रविकसतीति ॥ द्योतितः प्रकाशितोऽशेषलोको येन तस्मिन् , दश शतानि येषां ते दशशतास्ते करा यस्याः सा दशशतकरा सहस्रकरा मूर्तिर्यस्य तस्मिन्दशशतकरमूर्तौ सूर्ये द्वितीयेऽक्षिणि चक्षुषीव चिराय प्रविकसति सति संप्रत्यसौ द्यौराकाशं स्त्री च गम्यते । विगलितकिरणेन निष्प्रकाशेन सितकरं शुभ्रकिरणं वपुर्यस्य तेन सितकरवपुषा चन्द्रेण व्यङ्गितं विकलीकृतमेकेक्षणमेकनेत्रं यस्याः सा व्यङ्गितैकेक्षणा काणेव लक्ष्यते । अत्र दिवः काणत्वमुत्प्रेक्ष्यते । तच्च काणत्वमक्षित्वेनाध्यवसितेन निष्काशितेन चन्द्रेणेति । तत्र `येनाङ्गविकारः` (अष्टाध्यायी २.३.२० ) इति तृतीया
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र वि ति चि रा द्यो ति ता शे लो के
मू र्ता क्षि णी द्वि ती ये
सि पु षा सौ क्ष्य ते सं प्र ति द्यौ
र्वि लि कि णे व्य ङ्गि तै के क्ष णे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.