Loading data... On slow networks this could take a few minutes.
100%

कुमुदवनमपश्रि श्रीमदम्भोजषण्डं
त्यजति मुदमुलूकः प्रीतिमाश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांशुरस्तं
हतविधिलसितानां ही विचित्रो विपाकः ॥

मल्लिनाथः कुमुदेति ॥ कुमुदवनं अपगता श्रीर्यस्य तदपश्रि विगतशोभम् । `गोस्त्रियोरुपसर्जनस्य` (अष्टाध्यायी १.२.४८ ) इति ह्रस्वत्वम् । अम्भोजषण्डं श्रीमच्छोभायुक्तम् । उलूकः पेचको मुदं त्यजति । तस्य दिवाभीतत्वादिति भावः । चक्रवाकः प्रीतिमान् । रजनीविरहाभावत्वात्तस्येति भावः । अहिमरश्मिरुष्णांशुरुदयं याति । हिमांशुरिन्दुरस्तमदर्शनं याति । अस्तमित्यव्ययम् । कथमेतद्वैषम्यं तत्राह-हतेति । हतविधिलसितानां दुष्टदैवचेष्टितानां विपाकः परिपाकः तत्तत्प्राणिकर्मानुरूपफलदानप्रकार इति यावत् । विचित्रो विविधः । न त्वेकविध इत्यर्थः । हीति विस्मये । `अहो ही च विस्मये` इत्यमरः । विधिविपाकवैचित्र्याज्जगद्वैचित्र्यं युज्यत इति कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
कु मु श्रि श्री म्भो ण्डं
त्य ति मु मु लू कः प्री ति मा श्च क्र वा कः
हि श्मि र्या ति शी तां शु स्तं
वि धि सि ता नां ही वि चि त्रो वि पा कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.