विपुलतरनितम्बाभोगरुद्धे रमण्याः
शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् ।
रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चि-
द्गमयति शयनीये शर्वरी किं करोतु ॥

मल्लिनाथः विपुलेति ॥ रमण्या विपुलतरस्य नितम्बस्याभोगेन विस्तारेण रुद्धे आक्रान्ते शयनीये शयितुमवकाशमनधिगच्छन्नलभमानो जीवितेशः प्रेयान् रतिपरिचयेन पुनःपुनः सुरतावृत्त्या नश्यन्ती निवर्तमाना निद्राया इयं नैद्री निद्राप्रयुक्ता तन्द्रा आलस्यं यस्य स तथाभूतः सन् शर्वरी कथंचिद्गमयति कृच्छ्रेण नयति । किं करोतु किमन्यत्कुर्यात् । शयनानवकाशे सुरतमेव कालयापनोपाय इति तत्रैव प्रवृत्त इति भावः । अत्र शयनीयस्येदृग्रोधासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिरलंकारः। तादृग्रोधस्य विशेषणगत्या शयनावकाशानधिगमहेतुत्वात्काव्यलिङ्गभेद इति संकरः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि पु नि म्बा भो रु द्धे ण्याः
यि तु धि च्छ ञ्जी वि ते शो ऽव का शम्
ति रि श्य न्नै न्द्र न्द्रः ञ्चि
द्ग ति नी ये र्व री किं रो तु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.