अवतमसभिदायै भास्वताम्युद्गतेन
प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः ।
निरसितुमरिमिच्छोर्ये तदीयाश्रयेण
श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥

मल्लिनाथः &#३२; अवतमसेति ॥ अवतमसं तिमिरम् । `अवसमन्धेभ्यस्तमसः` (अष्टाध्यायी ५.४.७९ ) इति समासान्तः । यद्यपि क्षीणेऽवतमसं तमः` इत्युक्तं, तथापीह विरोधाद्विशेषानादरेण सामान्यमेव ग्राह्यम् । तस्य भिदायै भेदाय । “षिद्भिदादिभ्योऽङ् (अष्टाध्यायी ३.३.१०४ ) अभ्युद्गतेनाभ्युदितेनोद्यतेन च भास्वता सूर्येण दर्शनीयोऽप्युडुगणोऽसौ प्रसभं बलादपास्तः । तथा हि—अरिं निरसितुमिच्छोर्ये तदीयेनाश्रयेणाश्रयणेन श्रियं संपदं शोभां च । `शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते` इति विश्वः । अधिगतवन्तः प्राप्तवन्तस्तेऽपि हन्तव्यपक्षे वध्यकोटावेव । अरिवदरिपक्षा अपि वध्या एवेत्यर्थः । उडुगणोऽपि तमसि शोभते अतस्तत्पक्ष इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
भि दा यै भा स्व ता म्यु द्ग ते
प्र मु डु णो ऽसौ र्श नी यो ऽप्य पा स्तः
नि सि तु रि मि च्छो र्ये दी या श्र ये
श्रि धि न्त स्ते ऽपि न्त व्य क्षे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.