Loading data... On slow networks this could take a few minutes.
100%

प्रतिफलति करौघे संमुखावस्थितायां
रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।
बहिरभिहतमद्रेः संहतं कन्दरान्त-
र्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥

मल्लिनाथः प्रतीति ॥ घर्मभानुरुष्णांशुः संमुखावस्थितायां सान्द्रचन्द्रांशुवद्गौर्यां धवलायामित्युपमा । `षिद्गौरादिभ्यश्च` (अष्टाध्यायी ४.१.४१ ) इति ङीष् । रजतकटकमेव भित्तिः तस्यां करौघे स्वकिरणजाले प्रतिफलति सति अद्रेर्बहिरभिहतं कंदराणां दरीणामन्तर्गतं संहतं तिमिरोधमपि भिनत्ति । पुरोगतरजतभित्तिप्रतिहतस्य निजतेजसः कंदरान्तःप्रवेशादिति भावः । अत्र करौघस्यान्तःसंबन्धाभावेऽपि संबन्धोक्तेरतिशयोक्तिः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र ति ति रौ घे सं मु खा स्थि ता यां
भि त्तौ सा न्द्र न्द्रां शु गौ र्याम्
हि भि द्रेः सं तं न्द रा न्त
र्ग पि ति मि रौ घं र्म भा नु र्भि त्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.