Loading data... On slow networks this could take a few minutes.
100%

सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः
करनयनसहस्रं हेतुमालोकशक्तेः ।
अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं
हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥

मल्लिनाथः सरसीति ॥ सरसि जातानि सरसिजानि । `सप्तम्यां जनेर्डः` (अष्टाध्यायी ३.२.९७ ) । तत्पुरुषे कृति बहुलम्` (अष्टाध्यायी ६.३.१४ ) इत्यलुक् । तद्वनस्य कान्तं प्रियम्, अन्यत्र तद्वत्कान्तं रम्यं आलोकशक्तेर्लोकलोचनानां विषयग्रहणशक्तेर्हेतुं आलोकान्तरसहकृतानामेव तेषां तत्सामर्थ्यात्, अन्यत्र आलोकशक्तेर्दर्शनव्यापारस्य हेतुम् । दर्शनसाधनमित्यर्थः । करा नयनानीव, अन्यत्र करा इव नयनानि तेषां सहस्रं करनयनसहस्रं बिभ्रत् । अभ्रान्ते नभोमध्ये वृत्तिर्यस्य सोऽभ्रान्तवृत्तिः । अन्यत्राभ्रान्ते मेघे वृत्तिर्यस्य सः । मेघवाहन इत्यर्थः । `अभ्रं नभः स्वर्गबलाहकेषु` इति विश्वः । हरितोऽश्वो यस्य स हरिदश्वोऽर्कः हरिरिन्द्र इवातिमहिम्नातिमहत्तया । स्ववृद्ध्येत्यर्थः । लोकमाक्रान्तवन्तं व्याप्तवन्तं एकत्र प्रत्यक्षादन्यत्र `स इषुमात्रमिषुमात्रं विष्वग्वर्धते । स इमाँल्लोकानावृणोत्` इत्यागमादिति भावः । वृत्रं ध्वान्तं दानवं च त्वाष्ट्रं साधु हिनस्ति हन्ति । `ध्वान्तारिदानवा वृत्राः` इत्यमरः उपमा श्लेषो वा मतभेदात्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
सि का न्तं बि भ्र भ्रा न्त वृ त्तिः
स्रं हे तु मा लो क्तेः
खि ति हि म्ना लो मा क्रा न्त न्तं
रि रि रि श्वः सा धु वृ त्रं हि स्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.