अविरतदयिताङ्गासङ्गसञ्चरितेन
छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।
कनकनिकषरेखा कोमलं कामिनीनां
भवति वपुरवाप्तच्छायमेवातपेऽपि ॥

मल्लिनाथः अविरतेति ॥ अविरतेनाविच्छिन्नेन दयितानां प्रेयसामङ्गस्यासङ्गेन शरीरसंपर्केण संचारितेन संक्रामितेनाभिनवस्यासृजो रक्तस्येव कान्तिर्यस्य तेन कुङ्कुमेन छुरितं कनकस्य या निकषे निकषोपले रेखा राजिस्तद्वत्कोमलं मनोहरमित्युपमा । कामिनीनां वपुरातपेऽप्यवाप्तच्छायं लब्धवर्णोत्कर्षमेव भवति । स्वतः सुवर्णस्य ततः कुङ्कुमाङ्कितस्य कामिनीगात्रस्य पुनर्बालातपव्याप्तिरिति महती वर्णोत्कर्षसामग्रीति भावः । आतपे छायानातप इति विरोधाभासेऽपिशब्दः । `छाया त्वनातपे कान्तौ` इत्यमरः । अत्र संक्रान्तकुङ्कुमच्छुरितत्वकनकनिकषरेखाकोमलत्वयोरुपमापेक्षया छायावाप्तिहेतुत्वादुपमासंकीर्णं काव्यलिङ्गं तदातपेऽप्यवाप्तच्छायमित्यत्र विरोधेनैकवाचकानुप्रवेशेन संकीर्यते
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि यि ता ङ्गा ङ्ग ञ्च रि ते
छु रि भि वा सृ क्का न्ति ना कु ङ्कु मे
नि रे खा को लं का मि नी नां
ति पु वा प्त च्छा मे वा पे ऽपि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.