सितरुचिशयनीये नक्तमेकान्तमुक्तं
दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।
निजमिति रतिबन्धोर्जानतीमुत्तरीयं
परिहसति सखी स्त्रीमाददानां दिनादौ ॥

मल्लिनाथः सितेति ॥ नक्तं रात्रौ शयनीये तल्पे । एकान्तमुक्तमत्यन्तत्यक्तं सितरुचि शुभ्रवर्णम् । किंतु दिनादौ प्रभाते दिनकरकरसङ्गेनार्कांशुव्यतिकरेण व्यक्ता कौसुम्भी कुसुम्भस्य रागद्रव्यस्य संबन्धिनी कान्तिर्यस्य तत्तथा भासमानं रतिबन्धोः प्रियस्योत्तरीयं निजमात्मीयमिति जानतीम् । अत एवाददानां स्त्रीनायिकाम् । `वाम्शसोः` (अष्टाध्यायी ६.४.८० ) इतीयङभावपक्षे `अमि पूर्वः` (अष्टाध्यायी ६.१.१०७ ) इति पूर्वरूपम् । सखी परिहसति । अत्राकौसुम्भे कौसुम्भभ्रमात् सादृश्यनिबन्धनाद्भ्रान्तिमदलंकारः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
सि रु चि नी ये क्त मे का न्त मु क्तं
दि ङ्ग व्य क्त कौ सु म्भ का न्ति
नि मि ति ति न्धो र्जा ती मु त्त री यं
रि ति खी स्त्री मा दा नां दि ना दौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.