प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु
स्फटिकमयराजद्राजताद्रिस्थलाभम् ।
अरुणितमकठोरैर्वेश्म काश्मीरजाम्भः-
स्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥

मल्लिनाथः प्लुतमिति ॥ राजताद्रिस्थलाभं सुधाधवलितत्वात्कैलासतटसंनिभं यद्वेश्म निशासु शिशिरांशोरिन्दोरंशुभिश्चन्द्रिकाभिः प्लुतं धौतं सत् स्फटिकमयं स्फटिकविकार इवाराजद्रेजे । तदेतद्वेश्म भानोः सूर्यस्य अकठोरैः कोमलैर्भानुभिः अरुणितमरुणिकृतं सत् काश्मीरदेशे जातं काश्मीरजं कुङ्कुमं तस्याम्भसा स्नपितं सिक्तमिव भाति । उत्प्रेक्षयोः संसृष्टिः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्लु मि शि शि रां शो रं शु भि र्य न्नि शा सु
स्फ टि रा द्रा ता द्रि स्थ ला भम्
रु णि ठो रै र्वे श्म का श्मी जा म्भः
स्न पि मि दे द्भा नु भि र्भा ति भा नोः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.