अधिरजनि वधूभिः पीतमैरेयरिक्तं
कनकचषकमेतद्रोचनालोहितेन ।
उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्त-
र्मधुन इव तथैवापूर्णमद्यापि भाति ॥

मल्लिनाथः अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । वधूभिः पीतं मैरेयं मद्यं यस्य तत् अत एव रिक्तं पीतमैरेयरिक्तं एतत्कनकचषकं स्वर्णस्य पानपात्रम् । अवयवषष्ठ्या विकारार्थता । `चषकोऽस्त्री पानपात्रम्` इत्यमरः । रोचनालोहितेन गोरोचनारुणेन उदयत उदीयमानस्य अहिमरोचिषोऽर्कस्य ज्योतिषा तेजसा अन्तरभ्यन्तर आक्रान्तं व्याप्तं सत् अद्यापि इदानीमपि तथैव पूर्ववदेव&#३२; मधुन आपूर्णमिव । सामान्यषष्ठ्या योग्यविशेषपर्यवसाननियमात् `षष्ठी शेषे` (अष्टाध्यायी २.३.५० ) इति संबन्धसामान्ये षष्ठी करणस्यापि कारणत्वादिति । भाति शोभते । अत्रातपाक्रान्ते मधुपूर्णत्वोपेक्षया आतपे मधुभ्रमाद्भ्रान्तिमान् व्यज्यते
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
धि नि धू भिः पी मै रे रि क्तं
मे द्रो ना लो हि ते
हि रो चि र्ज्यो ति षा क्रा न्त न्त
र्म धु थै वा पू र्ण द्या पि भा ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.