प्रहरकमपनीय स्वं निदिद्रासतोच्चैः
प्रतिपदमुपहूतः केनचिज्जागृहीति ।
मुहुरविशदवर्णां निद्रया शून्यशून्यां
दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥

मल्लिनाथः प्रहरकमिति ॥ स्वं स्वकीयम् । स्वपाल्यमित्यर्थः । प्रहर एव प्रहरको यामः । `द्वौ यामप्रहरौ समौ` इत्यमरः । तमपनीय नीत्वा निदिद्रासता निद्रातुमिच्छता । निद्रातेः सन्नन्ताल्लटः शत्रादेशः । केनचिदतीतप्रहरपालेनेत्यर्थः । जागृहि प्रबुध्य स्वेति प्रतिपदं पदे पदे उच्चैरुपहूतो मनुष्योऽनन्तरयामिको मुहुर्निद्रया अविशदवर्णामस्पष्टाक्षरामत एव शून्यशून्यां शून्यप्रकाराम् । अनर्थप्रायामित्यर्थः । `प्रकारे गुणवचनस्य` (अष्टाध्यायी ८.१.१२ ) इति द्विर्भावः `कर्मधारयवदुत्तरेषु` (अष्टाध्यायी ८.१.११ ) इति कर्मधारयवद्भावादवयवसुपो लुक् गिरमयमहं जागर्मीति प्रतिवाचं दददपि प्रयच्छन्नपि । `नाभ्यस्ताच्छतुः` (७।११७८) इति नुमागमप्रतिषेधः । अन्त: अन्तःकरणे नो बुध्यते न जागर्ति । बुध्यतेर्दैवादिकात्कर्तरि लट् । अत्राप्रबोधप्रतिवचनदानयोर्विरोधे अपिशब्दः । निद्राह्वानाभ्यां तत्समाधानाद्विरोधाभासोऽलंकारः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र नी स्वं नि दि द्रा तो च्चैः
प्र ति मु हू तः के चि ज्जा गृ ही ति
मु हु वि र्णां नि द्र या शू न्य शू न्यां
पि गि न्त र्बु द्ध्य ते नो नु ष्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.