Loading data... On slow networks this could take a few minutes.
100%

क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः
प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।
भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः
क्षितिधरपीठादुत्थितः सप्तसप्तिः ॥

मल्लिनाथः क्षणमिति ॥ अयं सप्तसप्तिरर्कः क्षणमुपविष्टः क्षितिधरपीठमध्यासीनः क्ष्मातलन्यस्तपादः । प्रणामस्वीकाराय भूतलप्रसारिताङ्घ्रिरित्यर्थः । प्रणतिपरं नमस्कारं कुर्वाणं प्रीतं प्रणामस्वीकारात् संतुष्टं लोकं जनमह्नाय झटित्यवेक्ष्य । `झटित्यञ्जसाह्नाय` इत्यमरः । रूपावलोकेन संभाव्याशेषं भुवनतलं लोकस्वरूपं प्रत्यवेक्षिष्यमाणोऽनुसंधास्यमानः क्षितिधरस्य तटं पीठमिव सिंहासनमिव । अन्यत्र&#३२; तटमिव पीठं तस्मादुत्थितः । उदयाद्रिमतिक्रान्त इत्यर्थः । यथा कस्मिन्महाराजः सिंहासनोपविष्टः क्षणं प्रणतजनमादृत्य अथ सकलस्वराष्ट्रप्रत्यवेक्षणाय सहसोत्थाय गच्छति तद्वदित्यर्थः । अत्र प्रकृतार्कविशेषणवैभवादप्रकृतमहाराजप्रतीतेः समासोक्तिः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
क्ष मु वि ष्टः क्ष्मा न्य स्त पा दः
प्र ति वे क्ष्य प्री ह्ना लो कम्
भु शे षं प्र त्य वे क्षि ष्य मा णः
क्षि ति पी ठा दु त्थि तः प्त प्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.