Loading data... On slow networks this could take a few minutes.
100%

उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्ग-
न्सकमलमुखहासं वीक्षितः पद्मिनीभिः ।
विततमृदुकराग्रः शब्दयन्त्या वयोभिः
परिपतति दिवोऽङ्गके हेलया बालसूर्यः ॥

मल्लिनाथः उदयेति ॥ एष बाल उदितमात्रः बालश्चासौ सूर्यश्व बालसूर्यः उदयशिखरिशृङ्गस्योदयादिशिखरस्य प्राङ्गणेषु रिङ्गन् संचरन् पद्मिनीभिर्नलिनीभिः स्त्रीविशेषैश्च । `पद्मिनी स्त्रीविशेषेऽपि` इति विश्वः । कमलान्येव मुखानि तेषां हासेन विकासेन, हास्येन च, सह यस्मिन्कर्मणि तद्यथा तथा वीक्षितः सन् । वयोभिः पक्षिभिः । `वयः पक्षिणि बाल्यादौ` इति विश्वः । शब्दयन्त्याः शब्दं कुर्वत्याः । `आगच्छागच्छ वत्स` इति व्याहरन्त्या इत्यर्थः । शब्दशब्दात् `तत्करोति-` (ग०) इति ण्यन्ताल्लटः शतरि ङीप् । दिवोऽन्तरिक्षस्य मातुश्चाङ्के समीपे, उत्सङ्गे च विततानि प्रसृतानि मृदूनि कराग्राणि किरणाग्राणि हस्ताग्रे च यस्य सन् हेलया लीलया परिपतति । श्लेषमूलातिशयोक्त्यनुगृहीतरूपकम्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
शि रि शृ ङ्ग प्रा ङ्ग णे ष्वे रि ङ्ग
न्स मु हा सं वी क्षि तः द्मि नी भिः
वि मृ दु रा ग्रः ब्द न्त्या यो भिः
रि ति दि वो ऽङ्ग के हे या बा सू र्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.