Loading data... On slow networks this could take a few minutes.
100%

परिणतमदिराभं भास्करेण्ॐशुबाणै-
स्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः ।
रुधिरमिव वहन्त्यो भान्ति बालातपेन-
च्छुरितमुभयरोधोवारितं वारि नद्यः ॥

मल्लिनाथः परिणतेति ॥ नद्यः बालातपेन छुरितं रूषितम् अत एव परिणतमदिराभं सुपक्वसुरासंनिभमुभाभ्यां रोधोभ्यां वारितमवरुद्धमुभयरोधोवारितम् । `उभादुदात्तो नित्यम्` (अष्टाध्यायी ५.२.४४ ) इत्यत्र नित्यग्रहणसामर्थ्याद्वृत्तिविषये उभशब्दस्य स्थाने उभयशब्दप्रयोग इत्युक्तं प्राक् । वारि जलं भास्करेण । कस्कादित्वात्सत्वम् । अंशुभिरेव बाणैः । सर्वदिक्षु क्षतायाः प्रहृतायास्तिमिरमेव करिघटा गजसङ्घस्तस्या रुधिरमिवेत्युत्प्रेक्षा । वहन्त्यो भान्ति
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
रि दि रा भं भा स्क रे ण्ॐ शु बा णै
स्ति मि रि टा याः र्व दि क्षु क्ष ता याः
रु धि मि न्त्यो भा न्ति बा ला पे
च्छु रि मु रो धो वा रि तं वा रि द्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.