अतुहिनरुचिनासौ केवलं नोदयाद्रिः
क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
नवकरनिकरेण स्पष्टबन्धूकसून-
स्तबकरचितमेते शेखरं बिभ्रतीव ॥

मल्लिनाथः अतुहिनेति ॥ क्षणमुपरिगतेन स्थितेनातुहिनरुचिनार्केण केवलमसावुदयादिः पूर्वाद्रिर्न । `उदयः पूर्वपर्वतः` इत्यमरः । किंत्वेते सर्व एव क्ष्माभृतः सर्वेऽपि शैलाः क्षणमुपरिगतेनावस्थितेन नवकरनिकरेण स्पष्टैर्विकसितैः बन्धूकसूनस्तबकैर्बन्धुजीवककुसुमगुच्छैः विरचितम् । `बन्धूको बन्धुजीवकः` इत्यमरः । शेखरं शिखामाल्यम् । `शिखास्वापीडशेखरौ` इत्यमरः । बिभ्रतीवेत्युत्प्रेक्षा । न केवलमर्केणोदयाद्रिरेव बन्धूकशेखरं बिभर्ति, किंतु तत्करजालेन सर्वेऽपि पर्वतास्तथेत्यर्थः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
तु हि रु चि ना सौ के लं नो या द्रिः
क्ष मु रि ते क्ष्मा भृ तः र्व
नि रे स्प ष्ट न्धू सू
स्त चि मे ते शे रं बि भ्र ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.