पयसि सलिलराशेर्नक्तमन्तर्निमग्नः
स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ।
यदयमिदमिदानीमङ्गमुद्यन्दधाति
ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥

मल्लिनाथः पयसीति ॥ अयं च विवस्वान् नक्तं सलिलराशेः पयसि निमग्नोऽन्तर्वाडवाग्नेर्ज्वालयानिशमतापि तप्तः स्फुटमित्युत्प्रेक्षा । कुतः । यदिदानीमुद्यन् इदं ज्वलितः प्रज्वलन् यः खदिरकाष्ठस्याङ्गारः तद्वद्गौरमरुणमङ्गं दधाति । `गौरोऽरुणे सिते पीते` इति विश्वः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
सि लि रा शे र्न क्त न्त र्नि ग्नः
स्फु नि ता पि ज्वा या बा वा ग्नेः
मि मि दा नी ङ्ग मु द्य न्द धा ति
ज्व लि दि का ष्ठा ङ्गा गौ रं वि स्वान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.