नवकनकपिशङ्गं वासराणां विधातुः
ककुभि कुलिशपाणेर्भाति भासां वितानम् ।
जनितभुवनदाहारम्भमम्भांसि दग्ध्वा
ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥

मल्लिनाथः नवेति ॥ कुलिशं पाणौ यस्य स कुलिशपाणिरिन्द्रः । `ग्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः` (वा०) इति पाणेः परनिपातः । एतदेवात्र व्यधिकरणबहुव्रीहेश्च ज्ञापकम् । तस्य ककुभि प्राच्यां दिशि नवकनकवत्पिशङ्गं वासराणां विधातुर्दिनकरस्य भासां वितानं करजालं महाब्धेरम्भांसि दग्ध्वा जनितभुवनदाहारम्भं कृतजगद्दाहोद्योगं सदूर्ध्वमब्धेरुपरि ज्वलितमौर्वानलार्चिर्वडवानलज्योतिरिव भातीत्युत्प्रेक्षा
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
पि ङ्गं वा रा णां वि धा तुः
कु भि कु लि पा णे र्भा ति भा सां वि ता नम्
नि भु दा हा म्भ म्भां सि ग्ध्वा
ज्व लि मि हा ब्धे रू र्ध्व मौ र्वा ला र्चिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.