प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं
मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।
अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य
व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥

मल्लिनाथः प्रकृतेति ॥ प्रकृतजपविधीनां प्रक्रान्तजपकर्मणां नियमभाजां तपस्विनां संबन्धे ओष्ठे भवैरोष्ठ्यैः । `शरीरावयवाच्च` (अष्टाध्यायी ४.३.५५ ) इति यत्प्रत्ययः । अक्षरैर्वर्णैः । उपूपध्मानीयैरित्यर्थः । `उपूपध्मानीयानामोष्ठौ` इत्यनुशासनात् । मुहुरपिहितमावृतमन्यैरनोष्ठ्यैरक्षरैर्लक्ष्यं दर्शनीयं अत एवोद्रश्मय उद्गतांशवो दन्ता यस्य तदास्यं मुखमनुवेलं प्रतिक्षणं घट्टितोद्घट्टितस्य प्राणित्वान्मुहुर्घटितविघटितस्य । विशेषणसमासः । मुग्धं सुन्दरं यन्मुक्तानां मुक्ताफलानां पुटं&#३२; कोटिः । शुक्तिरिति यावत् । तस्यानुकृति साम्यं व्रजति । उपमालंकारः । एतेन श्लोकद्वयेन बहवः कर्मनिष्ठास्तपोनिष्ठाश्च ब्राह्मणा भगवन्तमनुयान्तीति कथितम्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र कृ वि धी ना मा स्य मु द्र श्मि न्तं
मु हु पि हि मो ष्ठ्यै क्ष रै र्ल क्ष्य न्यैः
नु कृ ति नु वे लं ट्टि तो द्घ ट्टि स्य
व्र ति नि भा जां मु ग्ध मु क्ता पु स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.