प्रतिशरणमशीर्णज्योतिरग्न्याहितानां
विधिविहितविरिब्धैः सामिधेनीरधीत्य ।
कृतगुरुदुरितौघध्वंसमध्वर्युवर्यै-
र्हुतमयमुपलीढे साधु साम्नाय्यमग्निः ॥

मल्लिनाथः प्रतीति ॥ अग्निराहितो यैस्तेषामग्न्याहितानाम् । `वाहिताग्न्यादिषु` (अष्टाध्यायी २.२.३७ ) इति निष्ठायाः परनिपातः । प्रतिशरणं प्रतिगृहम् । `शरणं गृहरक्षित्रोः` इत्यमरः । अशीर्णज्योतिरक्षतार्चिरयमग्निराहवनीयः विधिना `यज्ञकर्मण्यजपन्यूङ्खसामसु` (अष्टाध्यायी १.२.३४ ) इत्यादिशास्त्रोक्तरीत्या विहिता यथायोगमुच्चारिता विरिब्धाः स्वरा एकश्रुत्यादयश्चत्वारो यैस्तैः । `क्षुब्धस्वान्त-` (अष्टाध्यायी ७.२.१८ ) इत्यादिना रेभृ शब्दे` इति धातोः स्वरे विरिब्धशब्दो निष्ठान्तोऽनिट्त्वेन निपातितः। अध्वर्युवर्यैः ऋत्विक्श्रेष्ठैः । ऋत्विग्विशेषवाचिनाध्वर्युशब्देन ऋत्विङ्मात्रलक्षणात् । यद्वा अध्वर्युः वर्यो मुख्यो येषां तैरध्वर्युप्रमुखैः, चतुर्भिर्ऋत्विग्भिरित्यर्थः । तस्माद्दर्शपौर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विज इति श्रवणात् । दर्शश्चायं सत्यत्रैव सांनाय्यविधानादिति । सामिधेनी: `प्र वो वाजा` (ऋग्वेदे पा.३।२।१५) इत्यादिका अग्निसमिन्धनीर्ऋचोऽधीत्य पठित्वा `ऋक्सामिधेनी धाय्या च या स्यादग्निसमिन्धने` इत्यमरः । सामिधेनीग्रहणं याज्यापुरोनुवाक्यादिमन्त्रान्तराणामप्युपलक्षणम्। कृतो गुरुतरदुरितानामोघस्य ध्वंसो यस्मिन्कर्मणि तद्यथा तथा साधु सम्यक् हुतं देवतोद्देशेन त्यक्तं संनीयत इति सांनाय्यं हविर्विशेषम् । `ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया` मिति विहिते दधिपयसी इत्यर्थः । पाय्यसांनाय्यनिकाय्य-` (अष्टाध्यायी ३.१.१२९ ) इत्यादिना हविर्विशेषे संपूर्वान्नयतेर्ण्यन्तादायादेशोपसर्गदीर्घनिपातः । उपलीढे आस्वादयति । `लिह आस्वादने` इति धातोः स्वरितेत्त्वाल्लटि तङि टेरेत्वं ढत्वधत्वष्टुत्वढलोपदीर्घाः । अत्राग्नेः सानाय्योपलेहनस्योत्तरकालभावित्वेऽपि तदुपलक्षितस्य कर्मण उदिते आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमति प्रागुदयादमावास्याया इति शास्त्रात्तत्कालप्रक्रान्तस्य वर्तमानत्वात्तस्यापि वर्तमानताव्यपदेशः । एतच्चाहिताग्नित्वमात्रेण कालविशेषानादरेणोक्तमिति पूर्वोक्तचन्द्रोदयाद्यविरोधः । अथवा `उदिते जुहोत्यनुदिते जुहोति प्रातर्जुहोत्यग्निहोत्रं` इति तत्कालत्वात्सामिधेनीसांनाय्यशब्दयोर्मन्त्रहविर्मात्रपरत्वमाश्रित्याग्निहोत्रपरत्वेन व्याख्येयम् । तस्मादग्निहोत्रस्य यज्ञक्रत्वोः एकऋत्विगित्येकाध्वर्युकत्वेऽध्वर्युवर्यैरिति बहुवचनं यजमानबहुत्वादुपपद्यत इत्याहुरित्यलं छान्दसगोष्ठीव्यसनेन । वृत्त्यनुप्रासोऽलंकारः स्पष्ट एव
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र ति शी र्ण ज्यो ति ग्न्या हि ता नां
वि धि वि हि वि रि ब्धैः सा मि धे नी धी त्य
कृ गु रु दु रि तौ ध्वं ध्व र्यु र्यै
र्हु मु ली ढे सा धु सा म्ना य्य ग्निः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.