अरुणजलजराजीमुग्धहस्ताग्रपादा
बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
अनुपतति विरावैः पत्रिणां व्याहरन्ती
रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥

मल्लिनाथः अरुणेति ॥ अरुणजलजराज्येव रक्तकमलश्रेण्येव मुग्धं सुन्दरं हस्ताग्रपादं हस्तौ च अग्रपादौ च यस्याः सा बहुलं मधुपमालाकज्जलं कज्जलमिव मधुपमाला ययोस्ते अक्षिणी इन्दीवरे इव यस्याः सा बहुलमधुपमालाकज्जलेन्दीवराक्षी पत्रिणां पक्षिणां विरावैः व्याहरन्ती आलपन्ती । `व्याहार उक्तिर्लपितम्` इत्यमरः । अचिरजाता सद्योभवा बाला च पूर्वसंध्या प्रातःसंध्या सुतेव पुत्रीव रजनिमनुपतत्यनुधावति । जननीमिवेत्यर्थः । इह विरावैर्व्याहरन्तीति व्यधिकरणपरिणामः तत्संकीर्णेयमुपमा
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
रु रा जी मु ग्ध स्ता ग्र पा दा
हु धु मा ला ज्ज ले न्दी रा क्षी
नु ति वि रा वैः त्रि णां व्या न्ती
नि चि जा ता पू र्व न्ध्या सु ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.