बहुजगदपुरस्तात्तस्य मत्ता किलाहं
चकर च किल चाटु प्रौढयोषिद्वदस्य ।
विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य
व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥

मल्लिनाथः बह्विति ॥ अह्नि दिवसे व्यपगतमदया मुग्धवध्वा सखीभ्यो विदितम् । रात्रौ त्वयेत्थं कृतमिति सखीभिराख्यातमित्यर्थः । रात्रिवृत्तम् । रात्रौ कृतं स्वचेष्टितमित्यर्थः । मत्ता मदमूढा अहं तस्य प्रियस्य पुरस्तादग्रे बहु अनेकं जगद किल गदानि स्म । किलेति ऐतिह्ये । अत एव `परोक्षे लिट्` (अष्टाध्यायी ३.२.११५ ) `णलुत्तमो वा` (अष्टाध्यायी ७.१.९१ ) इति पक्षे णित्त्वाभावाद्वृद्ध्यभावः । च पुनः प्रौढयोषिता तुल्यं प्रौढयोषिद्वदित्युपमा । `तेन तुल्यम्-` (अष्टाध्यायी ५.१.११५ ) इति वतिप्रत्ययः । अस्य प्रियस्य चाटु प्रियवचनं चकर किल अकार्षं किल । लिडादिपूर्ववद्गुणो विशेषः । इति विचिन्त्य विमृश्य व्रीडितं लज्जितम् । भावे क्तः । निजकार्यप्रकाशेन लज्जात्र संचारी भावः । भावनिबन्धनात्प्रेयोऽलंकारः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
हु पु स्ता त्त स्य त्ता कि ला हं
कि चा टु प्रौ यो षि द्व स्य
वि दि मि ति खी भ्यो रा त्रि वृ त्तं वि चि न्त्य
व्य या ह्नि व्री डि तं मु ग्ध ध्वा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.