कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ
परिशिथिलितगात्रे गन्तुमापृच्छमाने ।
विगलितनवमुक्तास्थूलभाष्पाम्बुबिन्दु
स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥

मल्लिनाथः कृतेति ॥ कृतो गुरुतरस्य हारस्य छेदो यस्मिंस्तत्तथा आलिङ्ग्य परिशिथिलितगात्रे शिथिलीकृताङ्गे पत्यौ भर्तरि गन्तुमापृच्छमाने आमन्त्रयमाणे सति । `आङि नुप्रच्छ्योः` (वा०) इत्युपसंख्यानादात्मनेपदम् । कर्तरि लटः शानजादेशः । तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । अबलायाः स्तनयुगं कर्तृ । विगलिता निःसृता नवमुक्ता नूतनमौक्तिकान्येव स्थूलबाष्पाम्बुबिन्दवो यस्मिन्कर्मणि तद्यथा तथा रोदितीव विरहासहिष्णुतया रोदनं करोतीवेत्युत्प्रेक्षा रूपकसंकीर्णा । `रुदादिभ्यः सार्वधातुके` इतीडागमः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
कृ गु रु हा च्छे मा लि ङ्ग्य त्यौ
रि शि थि लि गा त्रे न्तु मा पृ च्छ मा ने
वि लि मु क्ता स्थू भा ष्पा म्बु बि न्दु
स्त यु ला या स्त त्क्ष णं रो दि ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.