करजदशनचिह्नं निशमङ्गेऽन्यनारी-
जनितमिति सरोषमीर्ष्यया शङ्कमानाम् ।
स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव
स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥

मल्लिनाथः करजेति ॥ विलसनशीलो विलासी । `वौ कषलस-` (अष्टाध्यायी ३.२.१४३ ) इत्यादिना घिनुण्प्रत्ययः । अङ्गे निजाङ्गे निशायां भवं नैशम् । `निशाप्रदोषाभ्यां च` (अष्टाध्यायी ४.३.१४ ) इत्यण्प्रत्ययः । करजदशनचिह्नं नखदन्तक्षतमन्यनारीजनितं सपत्नीकृतमिति शङ्कमानां विश्वसतीमत एवेर्ष्यया अक्षमया सरोषां स्त्रियं निजवधूं मत्तया मदमूढया त्वयैवैतद्दत्तमेवं कृतं खलु न सरसि नाभिजानासि किमिति काकुः । इत्थमनेन प्रकारेण व्रीडमानां स्वकृतत्वप्रत्यभिज्ञानाल्लज्जितां सतीमनुनयत्यङ्गीकारयति । स्वमौग्ध्यव्याघातो निर्वेदश्च लज्जया व्यज्यते
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
चि ह्नं नि ङ्गे ऽन्य ना री
नि मि ति रो मी र्ष्य या ङ्क मा नाम्
स्म सि लु त्तं त्त यै त्त्व यै
स्त्रि नु ती त्थं व्री मा नां वि ला सी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.