Loading data... On slow networks this could take a few minutes.
100%

मदनमदनविकासस्पष्टधार्ष्ट्येदयानां
रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।
विदधति न गृहेषूत्फुल्लपुष्पोपहारं
विफलविनययत्नाः कामिनीनां वयस्याः ॥

मल्लिनाथः मदेति ॥ मदमदनयोर्विकासेन विजृम्भणेन स्पष्टो धार्ष्ट्यस्योदय आविर्भावो यासां तासां कामिनीनां रतिरेव कलहः तस्मिन्विकीर्णैरितस्ततो विक्षिप्तैर्भूषणैरर्चितेषु गृहेषु वयस्याः स्निग्धपरिचारिकाः विनीयन्तेऽस्मिन्निति विनयोऽधिकारः तत्र यत्नो विफलो यासां ता विफलविनययत्नाः निष्फलस्वाधिकारोद्योगाः सत्यः उत्फुल्लैः पुष्पैरुपहारं पूजां न विदधति न कुर्वन्ति । अत्र समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते` इति लक्षणात् । तेन तासां तेष्वाभरणेषु भुक्तवस्त्रमाल्यादिवन्निर्माल्यबुद्धिर्ध्वन्यते
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
वि का स्प ष्ट धा र्ष्ट्ये या नां
ति वि की र्णै र्भू णै र्चि ते षु
वि ति गृ हे षू त्फु ल्ल पु ष्पो हा रं
वि वि त्नाः का मि नी नां स्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.