इतिकृतवचनायाः कश्चिदभेत्य बिभ्य-
द्गलितनयनवारेर्याति पादावनामम् ।
करुणमपि समर्थं मानिनां मानभेदे
रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥

मल्लिनाथः (कुलकम् ।) इतीति ॥ इति पूर्वोक्तश्लोकचतुष्टयरीत्या कृतवचनायाः कृतोपालम्भायाः गलितनयनवारेरधैर्यान्मुक्ताश्रोः । प्रेयस्या इति शेषः । कश्चिन्नायको बिभ्यत् त्रस्यन् । `नाभ्यस्ताच्छतुः` (अष्टाध्यायी ७.१.७८ ) इति नुमभावः। अभ्येत्यागत्य पादयोरवनाममवनतिं याति । प्रणामेन प्रसादयतीत्यर्थः । ननु कथमीदृङ्मार्दवं तथाहंकारिणस्तस्य रोदनमात्रेण तत्राह-करुणमिति । तथा हि—विग्रहेषु प्रणयकलहेषु योषितां करुणं दीनमपि रुदितमश्रुमोचनं मानिनामहंकारिणां पुंसां मानभेदेऽहंकारनिरासे समर्थं शतमस्त्रं साधनमुदितमुक्तम् । वदेः कर्मणि क्तः `वचिस्वपि-`।(अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । दीने प्रणयिजने पुंसां कोऽहंकार इति भावः। अर्थान्तरन्यासः । एषा च खण्डिता नायिका । `नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे । अन्यासंभोगचिह्नैस्तु खण्डितेर्ष्याकषायिता ॥` इति लक्षणात् । नायकस्तु पृष्टः । `व्यक्ताङ्गो निर्भयो पृष्टः` इति लक्षणात् । न चेह बिभ्यद्विशेषणविरोधः । आगमनकालेऽनिर्भीकताया एव लक्षणोपयोगात् । अन्यथा वैरं स्यादिति भावः । अयं च सहृदयः, अन्यथा रसाभास इत्याहुः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ति कृ ना याः श्चि भे त्य बि भ्य
द्ग लि वा रे र्या ति पा दा ना मम्
रु पि र्थं मा नि नां मा भे दे
रु दि मु दि स्त्रं यो षि तां वि ग्र हे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.