Loading data... On slow networks this could take a few minutes.
100%

नवनखपदमङ्गं गोपयस्यंशुकेन
स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।
प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्प-
न्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥

मल्लिनाथः नवेति ॥ किंच नवानि नखपदानि यस्मिंस्तदङ्गं वपुरंशुकेन गोपयसि छादयसि । गुपेश्चौरादिकात्स्वार्थे णिच् । दन्तेन दष्टमोष्ठं पुनरोष्ठं तु पाणिना स्थगयसि छादयसि । स्थगिरपि चौरादिकः । दिशि दिशि प्रतिदिशम् । विभक्त्यर्थेऽव्ययीभावः । `अव्ययीभावे शरत्प्रभृतिभ्यः` (अष्टाध्यायी ५.४.१०७ ) इति समासान्तष्टच्प्रत्ययः । विसर्पन् प्रसर्पन् अपरस्त्रीसङ्गशंसी स्त्र्यन्तरसङ्गसूचकः । अन्यप्रभवत्वात्तस्येति भावः । नवः परिमलाख्यो गन्धः परिमलगन्धः । `विमर्दोत्थे परिमलः` इत्यमरः । केन केनोपायेन वरीतुमाच्छादयितुम् । `वॄतो वा` (अष्टाध्यायी ७.२.३० ) इतीटो दीर्घः । शक्यः । न केनापि शक्य इत्यर्थः । अत्र नखदन्तक्षतयोरगौष्ठाच्छादने विसर्पणस्य गन्धानाच्छाद्यत्वे च विशेषणगत्या हेतुकत्वात्काव्यलिङ्गद्वये सजातीयसंकरः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ङ्गं गो स्यं शु के
स्थ सि पु रो ष्ठं पा णि ना न्त ष्टम्
प्र ति दि स्त्री ङ्ग शं सी वि र्प
न्न रि न्धः के क्यो री तुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.