तदवितथमवादीर्यन्मम त्वं
प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
मदधिवसतिमागाःकामिनां मण्डनश्री-
र्व्रजति हि सफलत्वं वल्लभालोकनेन ॥

मल्लिनाथः तदिति ॥ किंच मम त्वमेव प्रियेति यदवादीरवोचः । वदेर्लुङि `वदव्रज-` (अष्टाध्यायी ७.२.३ ) इत्यादिना वृद्धिः । तदवितथं सत्यम् । कुतः । यद्यस्मात् प्रियजनेन परिभुक्तं दुकूलम् । तदीयमित्यर्थः । दधानः धारयन्नित्यर्थः । `दधान` इत्यत्र `वसानः` इति पाठे वसान आच्छादयन् । वस आच्छादनार्थाल्लटः शानजादेशः । स त्वं मदधिवसतिं मम निवासमागाः प्राप्तः । `इणो गा लुङि` (अष्टाध्यायी २.४.४५ ) । युक्तं&#३२; चैतदित्याह-कामिनां मण्डनश्रीर्वल्लभानां प्रेयसीनामालोकनेन सफलत्वं व्रजति हि । अप्रिया चेत्कथमीदृशी मे संभावनेति भावः । अर्थान्तरन्यासः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि वा दी र्य न्म त्वं
प्रि रि भु क्तं द्दु कू लं धा नः
धि ति मा गाः का मि नां ण्ड श्री
र्व्र ति हि त्वं ल्ल भा लो ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.