प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः
स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः ।
चरणतलसरोजाक्रान्तिसंक्रान्तयासौ
वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥

मल्लिनाथः प्रकटेति ॥ किंच प्रकटतरमतिस्फुटमिममेनं नखविलेखम् । अन्या रमण्यो निजसपत्न्यः स्फुटं मा द्राक्षुः न पश्यन्तु । दृशेर्लुङ् `न दृशः` (अष्टाध्यायी ३.१.४७ ) इति क्साभावपक्षे सिचि वृद्धिः । इति बुद्ध्या कान्तया सविशङ्कं यथा तथा तुल्यवर्णो लाक्षासमानवर्णः । विवर्णस्य दुरपह्नवत्वादिति भावः । असौ ते तव वपुषि नखविलेखो नखव्रणश्चरणतलं सरोजमिवेत्युपमितसमासः । आक्रान्तिलिङ्गात्तस्याक्रान्त्या आघातेन संक्रान्तया लाक्षया रक्षितो गुप्तः । आच्छादित इत्यर्थः । हन्त सा तु पापीयसी लाक्षा स्वयमेव सर्वदुर्वृत्तपिशुनेति भावः । अत्र नखविलेखस्य लाक्षासावर्ण्यात्तदेकतापत्तेः सामान्यालंकारः । `सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता` इति लक्षणात्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र मि मं मा द्रा क्षु न्या ण्यः
स्फु मि ति वि ङ्गं का न्त या तु ल्य र्णः
रो जा क्रा न्ति सं क्रा न्त या सौ
पु षि वि ले खो ला क्ष या क्षि स्ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.