नखपदवलिनाभीसन्धिभागेषु लक्ष्यः
क्षतिषु च दशनानामङ्गनायाः सशेषः ।
अपि रहसि कृतानां वाग्विहीनोऽपिजातः
सुरतविलसितानां वर्णको वर्णकोऽसौ ॥
नखपदवलिनाभीसन्धिभागेषु लक्ष्यः
क्षतिषु च दशनानामङ्गनायाः सशेषः ।
अपि रहसि कृतानां वाग्विहीनोऽपिजातः
सुरतविलसितानां वर्णको वर्णकोऽसौ ॥
क्षतिषु च दशनानामङ्गनायाः सशेषः ।
अपि रहसि कृतानां वाग्विहीनोऽपिजातः
सुरतविलसितानां वर्णको वर्णकोऽसौ ॥
मल्लिनाथः
नखपदेति ॥ नखपदेषु नखक्षतेषु वलिषु त्रिवलिषु नाभ्यां संधिभागेषु कूर्परादिदेहसंधिस्थानेषु तथा दशनानां क्षतिषु दन्तव्रणेषु च सशेषः सावशेषः किंचिद्वेद्यमानः अत एव लक्ष्यो दृश्योऽङ्गनायाः संबन्धी असौ वर्णयति वर्णं करोति रञ्जयतीति वर्णकोऽङ्गरागो वाग्विहीनो वागिन्द्रियरहितोऽपि सन् रहसि कृतानामपि सुरतविलसितानां सुरतचेष्टितानां वर्णयति वक्तीति वर्णको वक्ता । व्यञ्जक इत्यर्थः । वर्णयतेर्ण्वुल्प्रत्ययः । `वर्णक्रियायां विस्तारे गुणोक्तौ वर्णनेऽप्यदः` इति भट्टमल्लः । जातः नखक्षतादिष्वेव लक्ष्यमाणोऽङ्गरागोऽन्यत्र स्वविलोपाच्चेष्टाविशेषानुमापको जात इत्यर्थः । अत्र वाग्विहीनोऽपि रहस्यकृतानामपि वर्णको वक्तेति विरोधस्य व्यञ्जकत्वलक्षणया परिहाराद्विरोधाभासोऽलंकारः
छन्दः
मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | १४ | १५ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| न | ख | प | द | व | लि | ना | भी | स | न्धि | भा | गे | षु | ल | क्ष्यः |
| क्ष | ति | षु | च | द | श | ना | ना | म | ङ्ग | ना | याः | स | शे | षः |
| अ | पि | र | ह | सि | कृ | ता | नां | वा | ग्वि | ही | नो | ऽपि | जा | तः |
| सु | र | त | वि | ल | सि | ता | नां | व | र्ण | को | व | र्ण | को | ऽसौ |
| न | न | म | य | य | ||||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.