प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकै-
रधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः ।
उपहसित इवासौ चान्द्रमाः कामिनीनां
परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥

मल्लिनाथः प्रकटेति ॥ उषसि प्रत्युषः। विभक्त्यर्थेऽव्ययीभावः । यद्वा प्रत्युषः प्रभातम् । `उषः प्रत्युषसी अपि` इत्यमरः । तत्र प्रोषितश्रीर्भ्रष्टशोभः अत एव प्रकटमलिनलक्ष्मा स्पष्टदृष्टकलङ्कोऽसौ चन्द्रमाः मृष्टाः प्रमृष्टाः पत्रावल्यः पत्रभङ्गाः येषां तैः । `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप् । तथाप्यधिगता रतिशोभा संभोगश्रीर्येषां तैः । परिणताः परिपक्वाः शरकाण्डा बाणाख्यतृणकाण्डिकाः । `शरो बाणे बालतृणे` इति शब्दार्णवे । तद्वदापाण्डुभिः कामिनीनां गण्डभागैर्गण्डस्थलैरुपहसित इवेत्युत्प्रेक्षा। पाण्डिमगुणनिमित्ता निष्कलङ्काः सकलङ्कं समानमानिनमुपहसन्तीति भावः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
प्र लि क्ष्मा मृ ष्ट त्रा ली कै
धि ति शो भैः प्र त्यु षः प्रो षि श्रीः
सि वा सौ चा न्द्र माः का मि नी नां
रि का ण्डा पा ण्डु भि र्ग ण्ड भा गैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.