Loading data... On slow networks this could take a few minutes.
100%

विलुलितकमलौघः कीर्णवल्लीवितानः
प्रतिवनमवधूताशेषशाखिप्रसूनः ।
क्वचिदयमनवस्थः स्थास्नुतामेति वायु-
र्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥

मल्लिनाथः विलुलितेति ॥ वने वने प्रतिवनम् । याथार्थ्येऽव्ययीभावः। विलुलिता व्यालोलिताः कमलौघा येन सः। कीर्णा विक्षिप्ता वल्लीनां मालत्यादीनां विताना विस्तारा येन सः । अवधूतान्यशेषशाखिनां बकुलचम्पकादीनां प्रसूनानि येन सः । तथापि क्वचित्पूर्वोक्तकमलवनादौ कुत्रापि नास्त्यवस्था स्थितिरस्येत्यनवस्थः स्थिति मप्राप्तोऽयं वायुर्वधूनां कुसुमानां च विमर्देन संघर्षेणोद्गन्धिषूद्गतगन्धेषु । गन्धस्येत्वम् । वेश्मान्तरेषु गृहान्तरेषु स्थास्नुतां स्थायित्वमेति । पूर्वोक्तसर्वोत्कृष्टसौरभलोभादिति भावः । `ग्लाजिस्थश्च-` (अष्टाध्यायी ३.२.१३९ ) इति ग्स्नुप्रत्ययः । वधुशब्दो ह्रस्वोकारान्तोऽप्यस्ति । यद्वा `मधुकुसुम` इति पाठः । मधुयुक्तानि कुसुमानि तेषां विमर्देनेत्यर्थः । अत्र वायोरस्थायित्वेऽपि स्थायित्वसंबन्धोक्तेरतिशयोक्तिः । तथा विमर्दगन्धस्य कमलादिगन्धादाधिक्यरूपव्यतिरेकप्रतीतेरलंकारेणालंकारध्वनिः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि लु लि लौ घः की र्ण ल्ली वि ता नः
प्र ति धू ता शे शा खि प्र सू नः
क्व चि स्थः स्था स्नु ता मे ति वा यु
र्व धु कु सु वि र्दे द्ग न्धि वे श्मा न्त रे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.