मुदितयुवमनस्कास्तुल्यमेव प्रदोषे
रुचमदधुरुभय्यः कल्पिता भूषिताश्च ।
परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते
युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥

मल्लिनाथः मुदितेति ॥ प्रदोषे रात्रौ मुदितानि यूनां मनांसि याभिस्ताः मुदितयुवमनस्काः । `उरःप्रभृतिभ्यः कप्` (अष्टाध्यायी ५.४.१५१ ) । कल्पिता उपभोगाय संपादिता भूषिता वलयवसनादिभिरुपस्कृताश्च उभय्य उभयविधा युवतयः पुष्पमालाश्च । `उभादुदात्तो नित्यम्` (अष्टाध्यायी ५.२.४४ ) इति उभस्यायजादेशः `टिड्ढाणञ्-` (४।१। १५) इत्यादिना ङीप् । तुल्यमेवाविशेषं यथा तथा रुचं शोभामदधुर्धृतवत्यः । धाञो लिट् । प्रभाते तूपभोगान्नीरुचो निष्प्रभाः पुष्पमालाः परिमलेन विमर्दगन्धेन रुचिराभिरुपभोगादधिसुरभिभिर्युवतिभिर्न्यक्कृतास्त्यक्ता अवधीरिताश्च । अत्र पुष्पमालाभ्यो युवतीनां साम्योक्तिपूर्वकविमर्दसहत्वेनाधिक्योक्तेर्व्यतिरेकः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
मु दि यु स्का स्तु ल्य मे प्र दो षे
रु धु रु य्यः ल्पि ता भू षि ता श्च
रि रु चि रा भि र्न्य क्कृ ता स्तु प्र भा ते
यु ति भि रु भो गा न्नी रु चः पु ष्प मा लाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.