Loading data... On slow networks this could take a few minutes.
100%

विगततिमिरपङ्गं पश्यति व्योम याव-
द्धुवति विरहखिन्नः पक्षती यावदेव ।
रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना
सरिदपरतटान्तादागता चक्रवाकी ॥

मल्लिनाथः विगतेति ॥ विरहेण खिन्नः रथचरणेन चक्रेण समाह्वस्तुल्याख्यः, तस्यैव समाह्वा समाख्या यस्येति वा रथचरणसमाह्वः । चक्रवाक इत्यर्थः । `कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः` इत्यमरः । तिमिरं पङ्कमिवेत्युपमितसमासः । तद्विगतं यस्मात्तद्व्योम यावत्पश्यति, यावदेव पक्षती पक्षमूले । `स्त्री पक्षतिः पक्षमूलम्` इत्यमरः । `पक्षात्तिः` (अष्टाध्यायी ५.२.२५ ) इति तिप्रत्ययः । धुवति उत्पतितुं धुनोति । `धू विधूनने` इति धातोस्तौदादिकत्वादुवङादेशः । तावदेवोत्पतनात्प्रागेव चक्रवाकी चक्रवाकस्य स्त्री । `जातेरस्त्रीविषयादयोपधात्` (अष्टाध्यायी ४.५.६३ ) इति ङीष् । औत्सुक्येनोत्कण्ठया नुन्ना प्रेरिता सती सरितोऽपरतटान्तात्परभूमेः सकाशादागता । एतेनानयोरुन्मनस्कता समश्चानुराग इत्युक्तम् । अत्र रागौत्सुक्ययो रसभावयोस्तिर्यग्गतत्वेनाभासयोर्निबन्धनादूर्जस्वी नामालंकारः । `रसभावतदाभासप्रशमानां निबन्धने । रसवत्प्रेय ऊर्जस्विसमाहितानि` इति लक्षणात्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि ति मि ङ्गं श्य ति व्यो या
द्धु ति वि खि न्नः क्ष ती या दे
मा ह्व स्ता दौ त्सु क्य नु न्ना
रि टा न्ता दा ता क्र वा की
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.