व्रजतिविषयमक्ष्णामंशुमाली न याव-
त्तिमिरमखिलमस्तं तावदेवारुणेन ।
परपरिभवि तेजस्तन्वतामाशु कर्तुं
प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥

मल्लिनाथः व्रजतीति ॥ अंशुमाली सूर्यः । व्रीह्यादित्वादिनिप्रत्ययः । यावदक्ष्णां विषयं भूमिं न व्रजति । न दृश्यत इत्यर्थः । तावदेवारुणेनानूरुणाखिलं तिमिरमस्तमपास्तं परेषां परिभवि तिरस्कारकम् । `जिदृक्षि-` (अष्टाध्यायी ३.२.१५७ ) इत्यादिना इनिप्रत्ययः । तेजः प्रतापं तन्वतां प्रथयतामग्रे सरतीत्यग्रेसरः पुरःसरोऽपि । `पुरोऽग्रतोऽग्रेषु सर्तेः` (अष्टाध्यायी ३.२.१८ ) इति टप्रत्ययः । विपक्षस्य शत्रोरुच्छेदं कर्तुमाशु प्रभवति शक्नोति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
व्र ति वि क्ष्णा मं शु मा ली या
त्ति मि खि स्तं ता दे वा रु णे
रि वि ते स्त न्व ता मा शु र्तुं
प्र ति हि वि क्षो च्छे ग्रे रो ऽपि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.