Loading data... On slow networks this could take a few minutes.
100%

नवकुमुदवनश्रीहासकेलिप्रसङ्गा-
दधिकरुचिरशेषामप्युषां जागरित्वा ।
अयमपरदिशोऽङ्गे मुञ्चति स्रस्तहस्तः
शिशयिषुरपि पाण्डुं म्लानमात्मानमिन्दुः ॥

मल्लिनाथः नवेति ॥ अधिकरुचिरयमिन्दुर्नवकुमुदवनश्रियो विकासः परिहासश्च स एव केलिस्तस्यां प्रसङ्गादासङ्गादशेषामप्युषां सकलामपि रात्रिम् । `विभावरी नक्तमुषा शर्वरी` इति विश्वः । अत्यन्तसंयोगे द्वितीया । जागरित्वा जागरणं कृत्वा शिशयिषुः शयितुमिच्छुरिव । शेतेः सन्नन्तादुप्रत्ययः । स्रस्तो हस्तो नक्षत्रविशेषः, करश्च यस्य स सन् अपरदिशः पश्चिमदिशोऽङ्के समीपे, उत्सङ्गे च पाण्डुं पाण्डुवर्णं म्लानं लान्तमात्मानं स्वशरीरं मुञ्चति । दक्षिणनायकः कयाचित्सह विहृत्य श्रान्तः कस्याश्चिदङ्के शेते तद्वदिति भावः । अत्र प्रहासकेल्यङ्ककरस्रसनादिव्यवहारादिन्दुकुमुदवनश्रीपश्चिमानां नायकत्वप्रतीतेः समासोक्तिरलंकारः । विशेषणसाम्यं तूपलक्षणमित्यलंकारसर्वस्वकारः । सा चोत्प्रेक्षासंकीर्णा
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
कु मु श्री हा के लि प्र ङ्गा
धि रु चि शे षा प्यु षां जा रि त्वा
दि शो ऽङ्गे मु ञ्च ति स्र स्त स्तः
शि यि षु पि पा ण्डुं म्ला मा त्मा मि न्दुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.