शिशिरकिरणकान्तं वासरान्तेऽभिसार्य
श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव ।
व्रजति रजनिरेषा तन्मयूखाङ्गरागैः
परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥

मल्लिनाथः शिशिरेति ॥ एषा रजनिर्वासरान्ते रात्रौ शिशिरकिरणश्चन्द्रस्तमेव कान्तमभिसार्याभिसृत्य । स्वार्थे णिच् । सांप्रतं श्वसनैस्तत्कालवातैर्निश्वासैश्च सुरभिगन्धिः सुगन्धिः अनिन्द्यैर्मनोहरैर्मयूखैरेवाङ्गरागैः परिमलितं व्याप्तं वासितं चाम्बरान्तं नभःप्रान्तं वस्त्रान्तं च वहन्ती भजन्ती सत्वरेव व्रजति । अत्रेन्दुतन्मयूखादीनां कान्तत्वाङ्गरागत्वादिरूपणावगमादेकदेशविवर्ति रूपकम्
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
शि शि कि का न्तं वा रा न्ते ऽभि सा र्य
श्व सु भि न्धिः सा म्प्र तं त्व रे
व्र ति नि रे षा न्म यू खा ङ्ग रा गैः
रि लि नि न्द्यै म्ब रा न्तं न्ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.