Loading data... On slow networks this could take a few minutes.
100%

लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा
रजनय इव निन्द्राक्लान्तनीलोत्पलाक्ष्यः ।
तिमिरमिव दधानाः स्रंसिनः केशपाशा-
नवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥

मल्लिनाथः लुलितेति ॥ लुलितनयनताराः निद्राकलुषिताक्षिकनीनिकाः, अन्यत्राप्रसन्ननक्षत्राः । `ऋक्षाक्षिमध्ययोस्तारा` इति विश्वः । वाणीन्दुबिम्बानीवेत्युपमितसमासः । तिमिरमिवेत्यादिलिङ्गात् , अन्यत्र वाणीवेन्दुबिम्बानि तानि क्षामाणि सुरतप्रभाताभ्यां म्लानानि यासां ताः निद्रया स्वप्न मुकुलीभावेन क्लान्तानि नीलोत्पलानि अक्षीणीव नीलोत्पलानीवाक्षीणि यासां ताः स्रंसिनः केशपाशांस्तिमिरमिवान्यत्र तु तानिव तिमिरं दधानाः अत एव रजनय इव स्थिताः । अमूर्वारवध्वो वेश्याः । `वारस्त्री गणिका वेश्या` इत्यमरः । अवनिपतिगृहेभ्यो यान्ति निर्यान्ति । श्लिष्टविशेषणेयमुपमेत्येके । श्लेष एवायमुभयविषयः । उपमा तु प्रतिभामात्रसारा इत्यन्ये
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
लु लि ता राः क्षा क्त्रे न्दु बि म्बा
नि न्द्रा क्ला न्त नी लो त्प ला क्ष्यः
ति मि मि धा नाः स्रं सि नः के पा शा
नि ति गृ हे भ्यो या न्त्य मू र्वा ध्वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.