विकचकमलगन्धैरन्धयन्भृङ्गमालाः
सुरभितमकरन्दं मन्दमावाति वातः ।
प्रमदनमदनमाद्यद्यौवनोद्दामरामा-
रमणरभसखेदस्वेदविच्छेददक्षः ॥

मल्लिनाथः विकचेति ॥ प्रमदमदनाभ्यां हर्षमन्मथाभ्यां माद्यन्तीनां यौवनेनोद्दामानां च रामाणां स्त्रीणां रमणरभसखेदेन सुरतसंरम्भश्रमेण यः स्वेदस्तस्य छेदे हरणे दक्षो वातः प्रभातमारुतः विकचकमलगन्धैर्भृङ्गमाला अन्धयन्नन्धाः कुर्वन् मोहयन् । अन्धयतेः `तत्करोति-` (ग०) इति ण्यन्ताल्लटः शत्रादेशः। सुरभितः सुरभीकृतो मकरन्दो यस्मिन्कर्मणि तद्यथा तथा मन्दमावाति प्रचलति । अत्र वृत्यनुप्रासोऽलंकारः । `श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः ॥` इति आचार्योक्ता दश गुणाः प्रायेणात्र संभवन्तीति निपुणैरुन्नेयाः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
वि न्धै न्ध न्भृ ङ्ग मा लाः
सु भि न्दं न्द मा वा ति वा तः
प्र मा द्य द्यौ नो द्दा रा मा
खे स्वे वि च्छे क्षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.