Loading data... On slow networks this could take a few minutes.
100%

अनिमिषमविरामा रागिणां सर्वरात्रं
नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।
इदमुदवसितानामस्फुटालोकसंप-
न्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥

मल्लिनाथः अनिमिषमिति ॥ इदं पुरोवर्ति अस्फुटा सूर्यतेजोभिभवान्मन्दायमाना आलोकसंपत् प्रकाशसंपत्तिर्यस्य तत् , अन्यत्र निद्राभिभवादनुद्बुद्धविषयावधानशक्तिकं दीपस्येदं दैपमर्चिज्वाला । `ज्वालाभासोनपुंस्यर्चिः` इत्यमरः । सर्वस्यां रात्राविति सर्वरात्रम् । `पूर्वकाल-` (अष्टाध्यायी २.१.१४९ ) इत्यादिना समासः । `अहःसर्व-` (५।४८७) इत्यादिना समासान्तः `रात्राह्नाहाः पुंसि` (अष्टाध्यायी २.४.२९ ) इति पुंलिङ्गता । अत्यन्तसंयोगे द्वितीया । अविरामा अविच्छिन्नाः रागिणां कामिनां, कामिनीनां च । `पुमान्स्त्रिया` (अष्टाध्यायी १.२.६७ ) इत्येकशेषः । नवा निधुवनलीलाः सुरतविलासान् । `व्यवायो ग्राम्यधर्मश्च रतं निधुवनं च सः` इति कोशः । कौतुकेन न निमिषतीत्यनिमिषं यथा तथा । पचाद्यच् । कुटादित्वान्न गुणः । अतिवीक्ष्य अत एव सनिद्रमुदवसितानां गृहाणां संबन्धि । `गृहं गेहोदवसितं वेश्म सद्म निकेतनम्` इत्यमरः । नयनमिवेत्युत्प्रेक्षा । घूर्णते भ्रमति
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
नि मि वि रा मा रा गि णां र्व रा त्रं
नि धु ली लाः कौ तु के ना ति वी क्ष्य
मु सि ता ना स्फु टा लो सं
न्न मि नि द्रं घू र्ण ते दै र्चिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.