Loading data... On slow networks this could take a few minutes.
100%

अविरतरतलीलायाःसजातश्रमाणा-
मुपशममुपयान्तं निःसहेऽङ्गेऽङ्गनानाम् ।
पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य
ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥

मल्लिनाथः अविरतेति ॥ अविरतरतलीलायासेन अविच्छिन्नसुरतक्रीडाप्रयासेन जातश्रमाणामङ्गनानां संबन्धिनि निःसहत इति निःसहेऽक्षमे । पचाद्यच् । अङ्गे उपशममुपयान्तं शाम्यन्तं मदन एवाग्निस्तं पुनरुषसि मातर्यन्तरिक्षे श्वयति वर्धत&#३२; इति मातरिश्वा । `श्वन्नुक्षन्-` (उ० १५७) इत्यादिना औणादिको निपातः । विविक्तैरमलैरनार्द्रैश्च मालतीनां जातीकुसुमानाम् । `सुमना मालती जातिः` इत्यमरः । रजोभिः परागैः । करीषैरिवेति भावः । अवचूर्ण्यावध्वस्य । संयुज्येति भावः । ज्यलयत्युद्दीपयति । प्राभातिकमालतीवातस्पर्शात्पुनरुद्बुद्धो मदन इत्यर्थः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६
वि ली ला याः जा श्र मा णा
मु मु या न्तं निः हे ऽङ्गे ऽङ्ग ना नाम्
पु रु सि वि वि क्तै र्मा रि श्वा चू र्ण्य
ज्व ति ना ग्निं मा ती नां जो भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.