Loading data... On slow networks this could take a few minutes.
100%

उदयमुदितदीप्तिर्याति यः संगतौ मे
पतति न वरमिन्दुः सोऽपरामेष गत्वा ।
स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति
स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥

मल्लिनाथः उदयमिति ॥ य इन्दुः मे मम संगतावुदितदीप्तिः प्रवृद्धद्युतिः सन् उदयमुदयाद्रिम् , अभ्युदयं च याति स इन्दुरेषोऽपरां पश्चिमाशां, पराङ्गनां च गत्वा पतत्यस्तमेति, पातित्यं च गच्छति । न वरम् । अनर्हमित्यर्थः । इति सद्यः साभ्यसूयं यथा तथा पूर्वकाष्ठा प्राची सैवाङ्गना, पूर्वनायिका च गम्यते । तस्याः स्मितरुचिर्मन्दहासकान्तिरिवैषा प्रभा विशदं निर्मलं स्फुरति प्रकाशते । प्राच्यामीषद्विशदा प्रभा प्रादुरभूदित्यर्थः । अत्र प्राचीगतप्राभातिकप्रभायामिन्दोः पराङ्गनासङ्गपातित्यनिमित्ता चेतनधर्मस्मितरुचित्वोत्प्रेक्षा पूर्वकाष्ठाङ्गनाया इति रूढिव्यूढेत्यनयोरङ्गाङ्गिभावेन संकरः
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
मु दि दी प्ति र्या ति यः सं तौ मे
ति मि न्दुः सो ऽप रा मे त्वा
स्मि रु चि रि द्यः सा भ्य सू यं प्र भे ति
स्फु ति वि मे षा पू र्व का ष्ठा ङ्ग ना याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.