परिशिथिलितकर्णग्रीवमामीलिताक्षः
क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।
रिरसयिषति भूयः शष्पमग्रे विकीर्णं
पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥

मल्लिनाथः परीति ॥ अयमश्वः परिशिथिलितं त्रस्तमुक्तं कर्णग्रीवं कर्णौ च ग्रीवा च यस्मिन्कर्मणि तद्यथा तथा आमीलिताक्षः ऊर्ध्वे जानुनी यस्य स ऊर्ध्वज्ञुः । ऊर्ध्वजानुस्तिष्ठन्नित्यर्थः । `ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात्` इत्यमरः । `ऊर्ध्वाद्विभाषा` (अष्टाध्यायी ५.४.१३० ) इति जानुशब्दस्य ज्ञुरादेशः । क्षणं स्वप्नं निद्रामनुभूय । उत्तमाश्वलक्षणमेतत् । भूयः पुनरपि पटुतरौ ग्रासग्रहणसमर्थौ चपलौ चञ्चलौ चोष्ठौ यस्य स सन् प्रस्फुरत्प्रोथं प्रस्फुरमाणघोणं यथा तथा । `घोणा तु प्रोथमस्त्रियाम्` इत्यमरः । अग्रे विकीर्णं क्षिप्तं शष्पं घासम् । `शष्पं बालतृणं घासः` इत्यमरः । रिरसयिषति रसयितुमास्वादयितुमिच्छति । रसयतेः सन्नन्ताल्लट् । स्वभावोक्तिरलंकारः । `स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम्` इति
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
रि शि थि लि र्ण ग्री मा मी लि ता क्षः
क्ष नु भू स्व प्न मू र्ध्व ज्ञु रे
रि यि ति भू यः ष्प ग्रे वि की र्णं
टु लौ ष्ठः प्र स्फु त्प्रो श्वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.