चिररतिपरिखेद प्राप्तनिद्रासुखानां
चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।
अपरिचलितगात्राः कुर्वतेन प्रियाणा-
मशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥

मल्लिनाथः चिरेति ॥ चरममपि शयित्वा पश्चात्सुप्त्वापि पूर्वमेव प्रबुद्धाः । `सुप्ते पश्वाच्च या शेते पूर्वमेव प्रबुध्यते । नान्यं कामयते चित्ते सा स्त्री ज्ञेया पतिव्रता ॥` इति स्मरणादिति भावः । तथापि तरुण्योऽपरिचलितगात्रा अस्पन्दवपुष्काः सत्यः चिररतिपरिखेदेन प्राप्तनिद्रासुखानां प्रियाणामशिथिलो गाढो यो भुजचक्रेण परस्परभुजवलयेनाश्लेषस्तस्य भेदं विश्लेषं विस्रंसनं न कुर्वते किंत्वाश्लिष्यैव स्थिताः, अन्यथा तन्निद्राभङ्गः स्यात् । `शयानं न प्रबोधयेत्` (याज्ञ० आचा०-अ० १३८) इति निषेधास्कन्दभयादिति भावः । रतिश्रमोऽत्र संचारी तदनुभावो निद्गा
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
चि ति रि खे प्रा प्त नि द्रा सु खा नां
पि यि त्वा पू र्व मे प्र बु द्धाः
रि लि गा त्राः कु र्व ते प्रि या णा
शि थि भु क्रा श्ले भे दं रु ण्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.