Loading data... On slow networks this could take a few minutes.
100%

आस्तृतेऽभिनवपल्लवपुष्पै-
रप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये
न क्षणः क्षणदयापि वधूभ्यः ॥

मल्लिनाथः आस्तृत इति ॥ अनारतमश्रान्तं रते सुरते अभिरताभ्य आसक्ताभ्यो वधूभ्यः क्षणमुत्सवसुखं ददातीति क्षणदा रात्रिस्तयाप्यभिनवैः पल्लवैः पुष्पैश्चास्तृत आच्छादितेऽपि । सुखशयनार्हेऽपीत्यर्थः । शेतेऽस्मिन्निति शयनीये तल्पे । `कृत्यल्युटो बहुलम्` ( पा.३।३।११३) इत्यधिकरणेऽनीयर् । शयितं शयनं कर्तुं क्षणोऽल्पकालोऽपि न दीयते स्म न दत्तः किं त्वाप्रभातमरमयत् । क्षणदात्वादेवेति भावः। क्षणदयापि क्षणो न दत्त इति विरोधस्योत्सवार्थत्वेन परिहाराद्विरोधाभासोऽलंकारः । `निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः` इत्यमरः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
स्तृ ते ऽभि ल्ल पु ष्पै
प्य ना ता भि ता भ्यः
दी ते स्म यि तुं नी ये
क्ष णः क्ष या पि धू भ्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.