योषितामतितरां नखलूनं
गात्रमुज्जवलतया न खलूनम् ।
क्षोभमाशु हृदयं नयदूनां
रागवृद्धिमकरोन्न यदूनाम् ॥

मल्लिनाथः योषितामिति ॥ नखलूनं न खलु ऊनम् । नयत् ऊनां न यदूनां इति पदच्छेदः । अतितरामतिमात्रम् । अव्ययादामुप्रत्ययः । नखैर्लूनं क्षतं नखलूनम् । `ल्वादिभ्यः` ( पा.८।२।४४) इति निष्ठानत्वम् । तथाप्युज्ज्वलतया औज्ज्वल्येन न ऊनं न न्यूनम् । किं तु समग्रमेवेत्यर्थः । नखक्षतानां कामिनीगात्रमण्डनत्वादिति भावः । अत एवाशु हृदयं प्रियचित्तं क्षोभं विकारं नयत् प्रापयत् । नयतेर्लटः शत्रादेशः । योषितां गात्रं यदूनां यादवानां रागवृद्धिमूनां न्यूनां नाकरोत् खलु । किं तु भूयोऽपि समग्रमेवाकरोदित्यर्थः । अत्र यमकं शब्दालंकारः। औज्ज्वल्यस्य विशेषणगत्या रागवृद्धिहेतुत्वात्काव्यलिङ्गमर्थालंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११ १२
यो षि ता ति रां लू नं
गा त्र मु ज्ज या लू नम्
क्षो मा शु हृ यं दू नां
रा वृ द्धि रो न्न दू नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.