Loading data... On slow networks this could take a few minutes.
100%

विश्रमार्थमुपगूढमजस्रं
यत्प्रियैः प्रथमरत्यवसाने ।
योषितामुदितमन्मथमादौ
तद्द्वितीयसुरतस्य बभूव ॥

मल्लिनाथः विश्रमेति ॥ योषितां प्रथमरत्यवसाने विश्रमार्थं श्रमापनोदार्थम् । श्राम्यतेर्घञ्प्रत्ययः । `नोदात्तोपदेशस्य मान्तस्यानाचमेः` (अष्टाध्यायी ७.३.३४ ) इति वृद्ध्यभावः । अजस्रं प्रियैरुपगूढमुपगूहनम् । नपुंसके भावे क्तः । `न लोका-` (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः । उदितमन्मथमुत्पादितकामम् । अत एव तदुपगूहनं द्वितीयसुरतस्यादौ बभूव । श्रमापनोदमन्मथोद्बोधाभ्यामुभयोपयोगादुभयार्थमभूत् । संयोगपृथक्त्वन्यायादित्यर्थः । अत्र मध्यवर्तिन उपगूढस्यैकस्य पूर्वोत्तरसुरतशेषत्वेन विशेषणगत्या विश्रमार्थोदितमन्मथपदार्थयोर्हेतुत्वात्काव्यलिङ्गद्वयं तदङ्गाङ्गिभावेन संकीर्यते
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
वि श्र मा र्थ मु गू स्रं
त्प्रि यैः प्र त्य सा ने
यो षि ता मु दि न्म मा दौ
द्द्वि ती सु स्य भू
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.