प्रेक्षणीयकमेव क्षणमास-
न्ह्रीविभङ्गुरविलोचनपाताः ।
संभ्रमद्रुतगृहीतदुकूल-
च्छाद्यमानवपुषः सुरतान्ताः ॥

मल्लिनाथः प्रेक्षणीयकमिति ॥ ह्रिया विभङ्गुराः स्खलिता विलोचनपाता दृष्टिपाता येषु ते संभ्रमेण द्रुतं गृहीतेन दुकूलेन छाद्यमानानि वपूंषि अन्तरङ्गाणि येषु ते सुरतान्ताः सुरतावसानानि क्षणं प्रेक्षणीयकं दृश्यमिवासन्नित्युपमा । नाटकादिरूपकेष्वाहार्यकं वस्तु तदृश्यं प्रेक्षणीयकमिति चोच्यते । इहाविर्भावतिरोधानादिना तत्तुल्यत्वम्
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्रे क्ष णी मे क्ष मा
न्ह्री वि ङ्गु वि लो पा ताः
सं भ्र द्रु गृ ही दु कू
च्छा द्य मा पु षः सु ता न्ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.