संगताभिरुचितैश्चलितापि
प्रागमुच्यत चिरेण सखीव ।
भूय एव समगंस्त रतान्ते
ह्रीवधूभिरसहा विरहस्य ॥

मल्लिनाथः संगताभिरिति ॥ उचितैः परिचितैः प्रियतमैः सह संगताभिर्वधूभिः प्राक् सुरतादौ चलिता गन्तुं प्रचालितापि ह्रीः सखीव चिरेणामुच्यत मुक्ता । न सहत इत्यसहा । पचाद्यजन्तेन नञ्समासः । विरहस्यासहा। विरहमसहमाना सतीत्यर्थः। कर्तृकर्मणोः कृति` (अष्टाध्यायी २.३.६५ ) इति कर्मणि षष्ठी । रतान्ते भूय एव वधूभिः समगंस्त संगता सखीवेत्येव । संपूर्वाद्गमेर्लुङ् `समो गम्यृच्छिभ्याम्-` (१॥३।२९)&#३२; इत्यात्मनेपदम् । `वा गमः` (अष्टाध्यायी १.२.१३ ) इति सिचः पक्षे कित्त्वाभावात् "अनुदात्तोपदेश-` (अष्टाध्यायी ६.४.३७ ) इत्यादिनानुनासिकलोपो न । सुरतेतरकाले स्त्रीणां लज्जैव भूषणमिति भावः । उपमालंकारः
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
सं ता भि रु चि तै श्च लि ता पि
प्रा मु च्य चि रे खी
भू गं स्त ता न्ते
ह्री धू भि हा वि स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.